अवधानिशिक्षा – Learn to be an Avadhāni

अवधानिशिक्षा – Learn to be an Avadhāni

इत्यस्मिन् विषये

अन्तर्जालीया राष्ट्रियकार्यशाला 

An Online National Workshop

Fridays and Saturdays from 3 September to 25 December 2021 | 4 to 6 pm

दिनाङ्कः – आगस्ट् 27 दिनाङ्कतः डिसेम्बर् 18 दिनाङ्कं यावत्  
प्रतिसप्ताहं शुक्रवासरे शनिवासरे च (आहत्य 60 घण्टाः)

समयः – सायं चतुर्वादनतः षड्वादनपर्यन्तम् 

Register by | पञ्जीकरणार्थम् अन्तिमः दिनाङ्कः – 10 August 2021

प्रस्तावना

अवधाननामा कलाविशेषः स्वीयैः नानाप्रकारकैः वैशिष्ट्यैः सहृदयानाम् आदरपात्रं विराजते । अत्र हि प्रष्टृभिः क्षिप्यमाणाः निषिद्धाक्षरी दत्तपदी चेत्यादयः काव्यसमाह्वाः विना कोशव्याकरणाद्यवलोकनं विना च समयव्ययं स्वबुद्ध्यैकसहायेन अवधानिना निरुह्यन्त इति कृत्वा इयं कला सर्वेषाम् अत्यन्तं विस्मयाय कल्पते । अस्याः द्रष्टारः कमप्यनिर्वचनीयं पाकम् आत्मनोऽनुभवन्ति भारतीयवाङ्मयसंस्कृत्यादिषु अभिमुखाः अधिकप्रवृत्तिका वा भवन्ति चेत्यादीनि भूयांसि प्रयोजनान्यपि अस्य कलाविशेषस्य दृष्टान्येव। 

एवं नितान्तविशिष्टामपि इमां कलाम् आत्मसात्कृतवन्तो विरला एव दृश्यन्ते । कलामिमां निर्वोढुं या प्रतिभा या धारणा यानि च कौशलानि आवश्यकानि तद्वन्तः सन्त्येव भूयांसः । परन्तु योग्ये काले अस्याः कलायाः परिचय्ः मार्गदर्शन्ं च तैर्न प्राप्यते इत्ययमंशः अस्मिन् वैरल्ये प्रमुखो हेतुः । 

तदेतद् वैरल्यं दूरीकर्तुम् अनेन अवधानकेन्द्रेण आविष्कृतोऽयं प्रकल्पः । अत्र हि अवधानित्वं प्राप्तुम् आवश्यकानाम् अंशानां व्यवस्थितं मार्गदर्शनं सङ्कल्पितं वर्तते । तथा च, आशुकाव्यरचना – तत्र पुनः निषिद्धक्षर्यादीनां विभिन्नानां काव्यसमाह्वानां लीलया निर्वाहश्च अवधाने मूलद्रव्यम् । धारणासामर्थ्यमपीह बलवदभिलषितम् । तदेतत् पाटवं सामर्थ्यं च सम्पादयितुम् अपेक्षितानां नानाविधानाम् अंशानां चर्चा अभ्यासश्च अस्यां कार्यशालायां भविता । 

अवधानविषये (काव्यकरणे च) ईदृशः व्यवस्थितः पाठ्यक्रमः इदम्प्रथमः । स चायं शतावधानिनः डा आर् गणेशवर्यस्य नेतृत्वे सम्मिलितैः अवधानाभिज्ञैः परिकल्पितः इत्ययमपि अंशोऽत्र अवधानार्हः ।

अस्यां च कार्यशालायां शतावधानी डा आर् गणेशवर्यः प्रधानाचार्यो भविष्यति, यस्य सहायौ भविष्यतः डा रामकृष्णपेजत्तायः श्री शशिकिरणश्च । तत्रभवान् डा शङ्करराजारामः डा बलरामशुक्लः चेत्यादीनां सुकवीनाम् अवधानिनां च विशेषव्याख्यानान्यपि इह चिन्तितानि सन्ति । ज्येष्ठैः अवधानिभिः सह संवादाः अपि काले काले आयोजयिष्यन्ते ।    

अस्यां कार्यशालायां भविष्यन्ति

  • सत्कवित्वे आवश्यकानां वर्णना, नानाच्छन्दसां गतिः तन्निर्वाहश्च, पद्यशिल्पं चेत्येतेषाम् अंशानां विस्तृता चर्चा अभ्यासश्च ।
  • कवित्वं सत्कवित्वं सभाकवित्वम् अवधानित्वं चेत्येतेषां सोपानानां क्रमेणारोहणम्
  • निषिद्धाक्षरी समस्या दत्तपदी चेत्यादीनाम् अवधानाङ्गानां निर्वाहे (तदपेक्षितसामग्र्यादिविषये च) निरन्तरा चर्चा अभ्यासश्च ।
  • पूर्वकविप्रणीतानां केषाञ्चन पद्यानां तत्तत्कविवैशिष्ट्यविचारसहितम् अध्ययनम् ।
  • काव्यकरणे अवधाननिर्वाहे च विभिन्नशास्त्रपुराणादिज्ञानं कथं सहकरोतीति विचाराः ।
  • काव्ये अवधाने च निष्णातैः सह संवादाः ।  

Highlights

  • Discussions and exercises on satkavitva, cadence and execution of various cchandas
  • Gradual climb up the ladder of kavitva, satkavitva, sabhākavitva and avadhānitva
  • Continuous discussion and practice of the components of avadhānam like niṣiddhākṣarī, samasyā, and dattapadī.
  • Analytical study of the works of antecedent poets
  • Inquiry into how knowledge of various śāstras, purāṇas etc. assists in the creation of poetry as well as in the performance of avadhānam.
  • Conversations with experts in poetry and avadhānam.

Pre-requisites

  • संस्कृतेन वाक्यरचनासामर्थ्यम् 
  • अवधानकलायाः प्राथमिकः परिचयः

Resource Persons

प्रधानाध्यापकः

डा. आर्. गणेशः, प्रसिद्धः शतावधानी कविः संशोधकश्च, बेङ्गळूरु, कर्णाटकम् 

साम्प्रतिकेषु कविषु विद्वत्सु च प्रथमपङ्क्तौ परिगण्यमानः तत्रभवान् रा. गणेशः अवधानक्षेत्रे बहुमान्यो वर्तते, यो हि संस्कृत-कन्नड-तेलुगुरूपासु तिसृषु भाषासु कलामिमां निर्वहति । एतावता 1200 अष्टावधानानि पञ्च शतावधानानि च निरूढवता अनेन प्रतिभाधनेन कर्णाटभाषायाम् अवधानकलायाः पुनरानयनेन महनीयं यशः समासादितमस्ति । कन्नडभाषायाम् अवधानकलायाः उत्पत्तिं समारभ्य साम्प्रतिकीं स्थितिं यावत् विस्तृतं साधारं च विवरणं प्रददानः ‘कन्नडदल्लि अवधानकले’ इत्याख्यः अस्य महान् शोधप्रबन्धः हम्पिविश्वविद्यालयेन D.Litt इत्यनेन उपाधिना पुरस्कृतोऽस्ति ।

न केवलम् अवधानविषये, किञ्च भारतीयज्ञानपरम्पराकल्पवृक्षस्य विभिन्नासु शाखासु साधिकारा गतिरस्ति अमुष्य प्रेक्षावतः । भारतीया संस्कृतिः, साहित्यम्, नानाकाव्यानि, भारतीयाः पाश्चात्त्याः च कलाविशेषाः, विभिन्नानि दर्शनानि – चैतेषु विषयेषु अनेन कृताः उपन्यासाः श्रोतॄणाम् उपलभ्याः सन्ति, येषां योगः दशसहस्रं घण्टाः अपि अतिक्राम्यति । अस्य नैकानि काव्यानि, पुस्तकानि, शोधलेखनानि चापि सादरम् उपात्तानि सन्ति सहृदयैः जिज्ञासुभिश्च । बहुभाषाभिज्ञश्चायं सारस्वतः अष्टादशसु भाषासु अनर्गलं व्यवहरति, यासु पालिः, प्राकृतम्, ल्याटिन्, ग्रीक्, इटालियन् चैता अपि अन्तर्भूताः । 

एवं सतां मतेन अनेन आर्येण नैकानि प्रतिष्ठितानि पदानि अलङ्कृतानि पुरस्काराश्च प्राप्ताः । तत्र पुरस्कारेषु राष्ट्रपतिना प्रदीयमानः ‘महर्षिबादरायणव्यासपुरस्कारः’ विशेषेण उल्लेखार्हः ।    

सहाध्यापकौ

डा. रामकृष्णपेजत्तायः, सहाचार्यः, चिन्मयविश्वविद्यापीठम्, एर्नाकुलम्

तत्रभवान् डा रामकृष्णपेजत्तायः सम्प्रति सहृदयसमादृतेषु युवावधानिषु अन्यतमः । अनेन देशस्य विभिन्नेषु प्रान्तेषु अधिकविंशानि अष्टावधानानि एतावता निरूढानि सन्ति । कविकर्मण्यपि नित्यसक्तस्यास्य बहूनि काव्यानि विभिन्नासु पत्रिकासु प्रकाशिताः गोष्ठीषु प्रस्तुताश्च ।  ‘शेखरवैशिष्ट्यम्’, ‘महर्षिपाणिनिः’ चेत्येते पुस्तके लिखितवतानेन कासाञ्चन कृतीनां सम्पादनमपि विहितमस्ति । अयं हि ‘अवधानविचक्षण’प्रशस्तिः, ‘प्रो.सी.जी.पुरुषोत्तमपुस्तकप्रशस्तिः’ चैताभ्यां पुरस्काराभ्यामपि सभाजितो वर्तते । ज्योतिःशास्त्रे विद्वत्पदवीं विद्यावारिधिपदवीं च प्राप्तवानेषः अधुना चिन्मयविश्वविद्यापीठे सहाचार्यपदम् अधितिष्ठति ।


श्री. शशिकिरणः बी.एन्., सम्पादकः, प्रेक्षा (संस्कृतिदर्शनादिविषया अन्तर्जालपत्रिका), बेङ्गळूरु

संस्कृतकर्णाटभाषामये साहित्ये साहित्यशास्त्रे च कृतावगाहः तत्रभवान् शशिकिरणः भारतीयदर्शनेष्वपि श्लाघनीयां गतिं बिभर्ति। ‘प्रेक्षा’  इत्याख्यायाम् अन्तर्जालपत्रिकायां सम्पादकत्वं वहता अनेन तत्र वैदुष्यवल्गूनि बहूनि लेखनानि लिखितानि अनूदितानि च। अवधानकलाविषये कृतगभीराध्ययनोSयं ‘The Art and Science of Avadhanam in Sanskrit’ इति अचिरप्रकाशितस्य उद्ग्रन्थस्य सहलेखकः वर्तते। स्पृहणीयया प्रतिभयापि सम्पन्नोयं जनः नैकानि काव्यान्यपि प्राणैषीत्, यानि सहृदयैः नितान्तमास्वादितानि श्लाघितानि च। अनेन ‘Stories behind Verses’ इत्याख्यस्य पुस्तकस्य यौगन्धरमित्याख्यायाः कवितायाश्च सहलेखकत्वं निरूढमस्ति। अनेन कृतः कीर्तिशेषश्रीसेडियापकृष्णभट्टविरचितस्य छन्दोगतिनामकस्य छन्दोमीमांसनपरस्य उद्ग्रन्थस्य अनुवादोSपि अचिरेण लोकार्पितो भविष्यति।

शुल्कम्

INR 1000/- (inclusive of GST)

संयोजिका

डा. मृदुला अश्विन् – mridula.aswin@cvv.ac.in | +91 94973 90716